वांछित मन्त्र चुनें

ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः । उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥

अंग्रेज़ी लिप्यंतरण

evā kavis tuvīravām̐ ṛtajñā draviṇasyur draviṇasaś cakānaḥ | ukthebhir atra matibhiś ca vipro pīpayad gayo divyāni janma ||

पद पाठ

ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः । उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥ १०.६४.१६

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:16 | अष्टक:8» अध्याय:2» वर्ग:8» मन्त्र:6 | मण्डल:10» अनुवाक:5» मन्त्र:16


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव) इस प्रकार (कविः) मेधावी (तुवीरवान्) बहुत ज्ञान ऐश्वर्य्यवाला (ऋतज्ञाः) सत्य तत्त्व का जाननेवाला (द्रविणस्युः) मोक्ष धन का इच्छुक (द्रविणसः-चकानः) विविध धन की कामना करनेवाला (अत्र-उक्थेभिः-च मतिभिः) इस जन्म में स्तुतियों तथा मन्त्रवचनों के द्वारा (विप्रः) अपने को विशेषरूप से तृप्त करनेवाला (गयः-दिव्यानि जन्म-अपीपयत्) प्राणवान् होता हुआ मोक्षविषयक सुखमय स्थानों को बढ़ाता है ॥१६॥
भावार्थभाषाः - मेधावी विद्वान् ज्ञान ऐश्वर्य से सम्पन्न होकर संसार में विविध सम्पत्ति को चाहता हुआ उपार्जित तथा प्राप्त करता है। उससे अपने को तृप्त करता हुआ योग्य आचरणवाला होकर मोक्षसुखों का अधिकारी बनता है ॥१६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एव) एवं (कविः) मेधावी “कविः-मेधाविनाम” [निघ० ३।१५] (तुवीरवान्) बहुज्ञानैश्वर्यवान् (ऋतज्ञाः) सत्यतत्त्वज्ञः (द्रविणस्युः) मोक्षधनस्येच्छुकः (द्रविणसः-चकानः) विविधधनस्य कामयमानः “चकानः कामयमानः” [ऋ०  ३।५।२ दयानन्दः] (अत्र उक्थेभिः-च मतिभिः) अस्मिन् जन्मनि स्तुतिभिर्मन्त्रवचनैश्च (विप्रः) आत्मानं विशिष्टतया तर्पयिता (गयः-दिव्यानि जन्म-अपीपयत्) प्राणवान् सन् “प्राणा वै गयाः” [श० १४।८।१५।७] ‘मतुब्लोपश्छान्दसः’ दिवि भवानि मोक्षविषयकाणि सुखमयानि स्थानानि वर्धयति ॥१६॥